08 7

विश्वास-प्रस्तुतिः

तदा॒त्मन्ने॒व हृ॑द॒य्ये॑ऽग्नौ वै॑श्वान॒रे प्रास्य॑त् ।
तद॑स्मा अच्छदयत् +++(द्रवीभावेन)+++।

मूलम्

तदा॒त्मन्ने॒व हृ॑द॒य्ये॑ऽग्नौ वै॑श्वान॒रे प्रास्य॑त् ।
तद॑स्मा अच्छदयत् ।

भट्टभास्कर-टीका

अथ बाह्याग्निं हित्वा आत्मनि स्थिते हृदय्येऽग्नौ प्रास्यत् । तदस्मा अच्छदयत् द्रुतमभवत् ।

विश्वास-प्रस्तुतिः

तस्मा॒द्+धिर॑ण्य॒ङ् कनि॑ष्ठ॒न् धना॑नाम् ।
+++(तथापि)+++ भु॒ञ्जत् प्रि॒यत॑मम् ।
+++(यतो)+++ हृ॒द॒य॒जँ हि ।

मूलम्

तस्मा॒द्धिर॑ण्य॒ङ्कनि॑ष्ठ॒न्धना॑नाम् । भु॒ञ्जत्प्रि॒यत॑मम् । हृ॒द॒य॒जँ हि ।

भट्टभास्कर-टीका

तस्माद् अद्यत्वेऽपि हिरण्यं कनिष्ठं दीप्ततमं धनानां मध्ये भवति, संस्कृतत्वाद् इत्यर्थः ।
‘कन दीप्तौ’ तृजन्तात् ‘तुश्छन्दसि’ इतीष्ठनि ‘तुरिष्ठेमेयस्सु’ इति तृलोपः ।
केचिदाहुः - धनानां मध्ये हिरण्यं कनिष्ठं अल्पतमम् अपि
भुञ्जत् प्रियतमं भवति हृदयजत्वाद् इति ।

विश्वास-प्रस्तुतिः

स वैतमे॒व नावि॑न्दत् ,
यस्मै॒ तान् दक्षि॑णा॒म् अने॑ष्यत् ।
ताँ स्वायै॒व हस्ता॑य दक्षि॑णायानयत् ।
तां प्रत्य॑गृह्णात् ॥ 48 ॥ - “दक्षा॑य+++(←दक्ष वृद्धौ)+++ त्वा॒ दक्षि॑णां॒ प्रति॑गृह्णा॒मी"ति॑ । सो॑ऽदक्षत॒+++(←दक्ष वृद्धौ)+++ दक्षि॑णां प्रति॒गृह्य॑ ।

मूलम्

स वैतमे॒व नावि॑न्दत् ।
यस्मै॒ तान्दक्षि॑णा॒मने॑ष्यत् ।
ताँ स्वायै॒व हस्ता॑य दक्षि॑णायानयत् ।
तां प्रत्य॑गृह्णात् ॥ 48 ॥ - दक्षा॑य त्वा॒ दक्षि॑णां॒ प्रति॑गृह्णा॒मीति॑ । सो॑ऽदक्षत॒ दक्षि॑णां प्रति॒गृह्य॑ ।

भट्टभास्कर-टीका

अथ स प्रजापतिर् अन्विच्छन्नपि तादृशस्य ग्रहीतारं नाविन्दत् नालभतैव, यस्मै तां दक्षिणामनेष्यत् दक्षिणात्वेन तद्धिरण्यमदास्यत् । अथान्यमविदित्वा स्वाय आत्मीयाय दक्षिणाय हस्तायैव तां दक्षिणामनयत् स्वयमेव च तां दक्षिणां प्रत्यगृह्णात् - दक्षायेति मन्त्रेण । दक्षाय वृद्ध्यर्थं ‘दक्ष वृद्धौ’ त्वां दक्षिणां प्रतिगृह्णामीत्यर्थः ।

अथ प्रजापतिः तां दक्षिणां प्रतिगृह्य अदक्षत अवर्धत प्रजाः सृष्टवान् ।

विश्वास-प्रस्तुतिः

दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॒ य ए॒वव्ँ वेद॑ ।

मूलम्

दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

तस्मादन्योऽप्येवं विद्वान् हिरण्यदक्षिणां प्रतिगृह्य दक्षते वर्धत एव ॥