08 6

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र्वै प्र॒जाका॑म॒स् तपो॑ऽतप्यत ।
स हिर॑ण्य॒म् +++(दक्षिणायै)+++ उदा॑स्यत्+++(=उत्क्षिप्तवान्)+++ ।
तद् अ॒ग्नौ प्रास्य॑त् +++(शुद्ध्यर्थम्)+++ ।
तद् अ॑स्मै॒ नाच्छ॑दयत् +++(द्रवीभावेन)+++ ।

मूलम्

प्र॒जाप॑ति॒र्वै प्र॒जाका॑म॒स्तपो॑ऽतप्यत ।
स हिर॑ण्य॒मुदा॑स्यत् ।
तद॒ग्नौ प्रास्य॑त् ।
तद॑स्मै॒ नाच्छ॑दयत् ।

भट्टभास्कर-टीका

3 प्रजापतिर्वा इत्यादि ॥ उदास्यत् उत्क्षिप्तवान् दक्षिणां दातुं हस्ते गृहीतवान् । तदग्नौ शोधनार्थं प्रास्यत् प्रक्षिप्तवान् । तदस्मै अस्याभिप्रायानुरूपं नाच्छदयत् न द्रुतम् अभवत् पाषाणमिव स्थिरमभवत् ।
‘छद अपवारणे’ चौरादिकः अदन्तो द्रष्टव्यः ।

विश्वास-प्रस्तुतिः

तद्द्वि॒तीयं॒ प्रास्य॑त् ।
तद॑स्मै॒ नैवाच्छ॑दयत् ।
तत्तृ॒तीयं॒ प्रास्य॑त् ॥ 47 ॥
तद॑स्मै॒ नैवाच्छ॑दयत् ।

मूलम्

तद्द्वि॒तीयं॒ प्रास्य॑त् ।
तद॑स्मै॒ नैवाच्छ॑दयत् ।
तत्तृ॒तीयं॒ प्रास्य॑त् ॥ 47 ॥
तद॑स्मै॒ नैवाच्छ॑दयत् ।

भट्टभास्कर-टीका

अथ द्वितीयं तृतीयं च प्रास्तं नैवाच्छदयत् ।