विश्वास-प्रस्तुतिः
द्वि॒तीयव्ँ॑ वृणी॒ष्वेति॑ ॥ 4
“इ॒ष्टा॒पू॒र्तयो॒र्मेऽक्षि॑तिं ब्रू॒ही"ति॑ होवाच ।
तस्मै॑ है॒तम् अ॒ग्निन् ना॑चिके॒तम् उ॑वाच ।
ततो॒ वै तस्ये॑ष्टापू॒र्ते नाक्षी॑येते ।
मूलम्
द्वि॒तीयव्ँ॑ वृणी॒ष्वेति॑ ॥ 4
इ॒ष्टा॒पू॒र्तयो॒र्मेऽक्षि॑तिं ब्रू॒हीति॑ होवाच ।
तस्मै॑ है॒तम॒ग्निन्ना॑चिके॒तमु॑वाच ।
ततो॒ वै तस्ये॑ष्टापू॒र्ते नाक्षी॑येते ।
भट्टभास्कर-टीका
अथ तत्तथाऽस्तु, द्वितीयमपि वृणीष्वेति तेनोक्ते
नचिकेता वदति स्म -
इष्टापूर्तयोः क्षितिं स्थानं मे ब्रूहीति +++(←स्वरकलने देषः)+++ ।
तत् तस्मै एतं नाचिकेतम् अग्निमुवाच । ततस्तस्येष्टापूर्ते नाक्षीयेताम् । छान्दसं ङेरेत्वम् ।
विश्वास-प्रस्तुतिः
नास्ये॑ष्टापू॒र्ते क्षी॑येते - यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑चैनमे॒वव्ँ वेद॑ ।
मूलम्
नास्ये॑ष्टापू॒र्ते क्षी॑येते -
यो॑ ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
नास्येत्यादि विदुषस्स्तुतिः ।
विश्वास-प्रस्तुतिः
“तृ॒तीयव्ँ॑ वृणी॒ष्वे"ति॑ ।
“पु॒न॒र्मृ॒त्योर्मेऽप॑जितिं ब्रू॒ही"ति॑ होवाच ।
तस्मै॑ है॒तम॒ग्निन्ना॑चिके॒तम् उ॑वाच ।
ततो॒ वै सोऽप॑ पुनर्मृ॒त्युम् अ॑जयत् ॥ । 46 ॥
मूलम्
तृ॒तीयव्ँ॑ वृणी॒ष्वेति॑ ।
पु॒न॒र्मृ॒त्योर्मेऽप॑जितिं ब्रू॒हीति॑ होवाच ।
तस्मै॑ है॒तम॒ग्निन्ना॑चिके॒तमु॑वाच ।
ततो॒ वै सोऽप॑ पुनर्मृ॒त्युम॑जयत् ॥ । 46 ॥
भट्टभास्कर-टीका
ततस्तृतीयं वरं वृणीष्वेति तेनोक्तो नचिकेता ब्रूते स्म - पुनर्मृत्योरपजितिं मे ब्रूहीति । पुनः पुनर्मृतिः पुनर्मृत्युः तस्यापजयोऽमृतत्वम् । तस्मै हेत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
अप॑ पुनर्मृ॒त्युञ्ज॑यति -
यो॑ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।
मूलम्
अप॑ पुनर्मृ॒त्युञ्ज॑यति । यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ।