विश्वास-प्रस्तुतिः
“नम॑स्ते अस्तु भगव॒” इति॑ होवाच -
“वरव्ँ॑ वृणी॒ष्वे"ति॑ ।
मूलम्
नम॑स्ते अस्तु भगव॒ इति॑ होवाच ।
वरव्ँ॑ वृणी॒ष्वेति॑ ।
भट्टभास्कर-टीका
2 अथ मृत्युरुवाच - हे भगवः! नमस्ते अस्तु प्रसीदेति । पुनरप्याह स्म - वरं वृणीष्वेति ।
विश्वास-प्रस्तुतिः
पि॒तर॑मे॒व जीव॑न्न् अया॒नीति॑ ।
मूलम्
पि॒तर॑मे॒व जीव॑न्नया॒नीति॑ ।
भट्टभास्कर-टीका
अथ नचिकेता ब्रवीति स्म - पितरमहं जीवन्नेव अयानि गच्छानीति ।