08 3

विश्वास-प्रस्तुतिः

तव्ँ वै प्र॒वस॑न्तञ् जगाम ।
तस्य॑ ह ति॒स्रो रात्री॒रना॑श्वान्गृ॒ह उ॑वास ।

मूलम्

तव्ँ वै प्र॒वस॑न्तञ् जगाम ।
तस्य॑ ह ति॒स्रो रात्री॒रना॑श्वान्गृ॒ह उ॑वास ।

भट्टभास्कर-टीका

एवं पित्रोक्ते पुत्रोऽपि तथैव कृतवानित्याह - तं वा इत्यादि । गतम् । परोक्षे लिट् ॥

विश्वास-प्रस्तुतिः

तमा॒गत्य॑ पप्रच्छ ।
कुमा॑र॒ कति॒ रात्री॑रवात्सी॒रिति॑ ।
ति॒स्र इति॒ प्रत्यु॑वाच ॥ 44 ॥

किं प्र॑थ॒माँ रात्रि॑माश्ना॒ इति॑ ।
प्र॒जान्त॒ इति॑ ।

किन्द्वि॒तीया॒मिति॑ ।
प॒शूँस्त॒ इति॑ ।

किन्तृ॒तीया॒मिति॑ ।
सा॒धु॒कृ॒त्यान्त॒ इति॑ ।

मूलम्

तमा॒गत्य॑ पप्रच्छ ।
कुमा॑र॒ कति॒ रात्री॑रवात्सी॒रिति॑ ।
ति॒स्र इति॒ प्रत्यु॑वाच ॥ 44 ॥

किं प्र॑थ॒माँ रात्रि॑माश्ना॒ इति॑ ।
प्र॒जान्त॒ इति॑ ।

किन्द्वि॒तीया॒मिति॑ ।
प॒शूँस्त॒ इति॑ ।

किन्तृ॒तीया॒मिति॑ ।
सा॒धु॒कृ॒त्यान्त॒ इति॑ ।