विश्वास-प्रस्तुतिः
तँ ह॒ स्मोत्थि॑तव्ँ॒ वाग॒भिव॑दति ॥ 42 ॥
“गौत॑म! कुमा॒रम्?” इति॑ ।
मूलम्
तँ ह॒ स्मोत्थि॑तव्ँ॒ वाग॒भिव॑दति ॥ 42 ॥
“गौत॑म! कुमा॒रम्?” इति॑ ।
भट्टभास्कर-टीका
अथ पितृवचनानन्तरं मृत्युसकाशं गन्तुम् उत्थितं सहसोच्चलितं पुत्रम् अभिलक्ष्याकाशे काचिद् वाग् अभिवदति स्म उत्तस्थौ ।
कीदृशी? आह -
हे गौतम! किं कुमारम् इति किमेवं बालं मृत्यवे ददासि?
किमिदं गौतमगोत्रस्य तव युज्यते? इति दर्शयितुं गौतमग्रहणम् ।
विश्वास-प्रस्तुतिः
स हो॑वाच -
परे॑हि मृ॒त्योर् गृ॒हान् ।
+++(यतो)+++ मृ॒त्यवे॒ वै त्वा॑ऽदा॒मिति॑ ।
मूलम्
स हो॑वाच - परे॑हि मृ॒त्योर् गृ॒हान् । मृ॒त्यवे॒ वै त्वा॑ऽदा॒मिति॑ ।
भट्टभास्कर-टीका
अथ पितोवाच - परेहि मृत्योर् गृहान्
यथाऽहं पापो न स्यां,
मृत्यवे खलु त्वाम् अदां दत्तवान् अहं
नेदानीं दत्तं निवर्तयितुम् उत्सहे
न तद् अन्यथा भाति,
तस्मात् पुत्र परेहि मृत्योर् गहान् यास्यसीति ।
विश्वास-प्रस्तुतिः
“तव्ँ वै प्र॒वस॑न्तङ् ग॒न्ताऽसी"ति॑ होवाच -
तस्य॑ स्म ति॒स्रो रात्री॒रना॑श्वान्गृ॒हे व॑सतात् ।
स यदि॑ त्वा पृ॒च्छेत् -
“कुमा॑र॒ कति॒ रात्री॑र् अवात्सी॒र्” इति॑,
“ति॒स्र” इति॒ प्रति॑ ब्रूतात् ।+++(स यदि॑ त्वा पृ॒च्छेत् -)+++
“किं प्र॑थ॒माँ रात्रि॑म् आश्ना॒” इति॑ ॥ 43 ॥
“प्र॒जां त॒” इति॑ +++(प्रति॑ ब्रूतात्)+++।+++(स यदि॑ त्वा पृ॒च्छेत् -)+++
“किन् द्वि॒तीया॒म्” इति॑ ।
“प॒शूँस् त॒” इति॑ +++(प्रति॑ ब्रूतात्)+++।+++(स यदि॑ त्वा पृ॒च्छेत् -)+++
किन्तृ॒तीया॒म् इति॑ -
सा॒धु॒कृ॒त्यां त॒ इति॑ +++(प्रति॑ ब्रूतात्)+++।
मूलम्
तव्ँ वै प्र॒वस॑न्तङ्ग॒न्ताऽसीति॑ होवाच ।
तस्य॑ स्म ति॒स्रो रात्री॒रना॑श्वान्गृ॒हे व॑सतात् ।
स यदि॑ त्वा पृ॒च्छेत् ।
कुमा॑र॒ कति॒ रात्री॑रवात्सी॒रिति॑ ।
ति॒स्र इति॒ प्रति॑ ब्रूतात् ।
किं प्र॑थ॒माँ रात्रि॑माश्ना॒ इति॑ ॥ 43 ॥
प्र॒जान्त॒ इति॑ । किन्द्वि॒तीया॒मिति॑ । प॒शूँस्त॒ इति॑ । किन्तृ॒तीया॒मिति॑ । सा॒धु॒कृ॒त्यान्त॒ इति॑ ।
भट्टभास्कर-टीका
अथ पिता पुत्रमुवाच - तं मृत्युं प्रवसन्तं गृहे असंनिहितं गन्तासि, असन्निहिते तस्मिन् मृत्यौ तस्य गृहा गन्तव्यास्त्वयेति यावत् । इत्थं च कर्तव्यमित्याह - तस्य गृहे तिस्रो रात्रीरनाश्वान् अनश्नन्नेव वसतात् वस । अथ स आगतो यदि त्वां पृच्छेत् हे कुमार! कति रात्रीर्मम गृहे अवात्सीः उषितवानसि इति, तिस्रो रात्रीरिति प्रतिब्रूतात् प्रतिब्रूहि । अथ स यदि पुनः पृच्छेत् प्रथमां रात्रिं किमाश्नाः अशितवानसि इति, तदैवं प्रतिब्रूयाः प्रजां आश्नामिति ।
अथ पुनरपि यदि पृच्छेत् द्वितीयां रात्रिं किमाश्ना इति, तदाऽपीत्थं ब्रूयाः पशूंस्ते आश्नामिति ।
यदि भूयोपि पृच्छेत् तृतीयां रात्रिं किमाश्ना इति, तदा चेत्थं प्रतिब्रूहि साधुकृत्यां सुकृतं त्वदीयमाश्नामिति ।