08 1

विश्वास-प्रस्तुतिः

उ॒शन् ह॒ वै वा॑जश्रव॒सस् स॑र्व-वेद॒सन्+++(=धनं)+++ द॑दौ ।

मूलम्

उ॒शन् ह॒ वै वा॑जश्रव॒सस् स॑र्व-वेद॒सन्द॑दौ ।

भट्टभास्कर-टीका

1 उशन्नित्यादि ॥ उशन्नाम याजश्रवसोऽपत्यं सर्ववेदसं सर्वस्वं ददौ । सर्वं वेदो धनं सर्ववेदसम् । ‘अनसन्नन्तान्नपुंसकाच्छन्दसि’ इत्यच् समासान्तः ।

विश्वास-प्रस्तुतिः

तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स ।
तँ ह॑ कुमा॒रँ सन्तं॒
दक्षि॑णासु नी॒यमा॑नासु श्र॒द्धा वि॑वेश ।

मूलम्

तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स ।
तँ ह॑ कुमा॒रँ सन्त॑म् ।
दक्षि॑णासु नी॒यमा॑नासु
श्र॒द्धा वि॑वेश ।

भट्टभास्कर-टीका

तस्य नचिकेता नाम पुत्रो बभूव । छान्दसो भूभावाभावः । न चिकेत न जज्ञौ पितुर्भावमिति नचिकेता इति केचित् । पृषोदरादिः ।
अथ तं पुत्रं कुमारम् एव बालम् एव सन्तं
दक्षिणासु नीयमानासु दक्षिणानयनकाले पितुः श्रद्धा दानाभिनिवेशो विवेश प्राप,
श्रद्धातिशयेन पुत्रम् अपि दक्षिणात्वेन देयम् अमन्यत ।

विश्वास-प्रस्तुतिः

स हो॑वाच -
“तत॒ कस्मै॒ मान् दा॑स्य॒सी"ति॑,
द्वि॒तीय॑न्, तृ॒तीय॑म् ।

मूलम्

स हो॑वाच ।
तत॒ कस्मै॒ मान्दा॑स्य॒सीति॑ ।
द्वि॒तीय॑न्तृ॒तीय॑म् ।

भट्टभास्कर-टीका

अथ विदिताभिप्रायः पुत्र उवाच पितरं - हे तात! कस्मै मां दास्यसि? इति ।
एवं द्वितीयं तृतीयं च पुनःपुनः पप्रच्छ ।

विश्वास-प्रस्तुतिः

तँ ह॒ परी॑त उवाच -
“मृ॒त्यवे॑ त्वा ददा॒मी"ति॑ ।

मूलम्

तँ ह॒ परी॑त उवाच ।
मृ॒त्यवे॑ त्वा ददा॒मीति॑ ।

भट्टभास्कर-टीका

अथ एवं पुत्रेण परीतः पर्याक्रान्तः पुनःपुनर्निर्बन्धितः पिता क्रुद्ध इव पुत्रमुवाच - मृत्यवे त्वा ददामीति ।