विश्वास-प्रस्तुतिः
अथो॒ यथा॒ रथे॒ तिष्ठ॒न्
+++(अधो वर्तमाने)+++ पक्ष॑सी+++(→चक्रे)+++ पर्या॒वर्त॑माने प्र॒त्यपे॑क्षते,
ए॒वम् अ॑होरा॒त्रे प्र॒त्यपे॑क्षते ।
+++(आदित्याद् अध एव वर्तमानत्वान्)+++
नास्या॑होरा॒त्रे लो॒कम् आ॑प्नुतः,
यो॑ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 41 ॥
मूलम्
अथो॒ यथा॒ रथे॒ तिष्ठ॒न्
पक्ष॑सी पर्या॒वर्त॑माने प्र॒त्यपे॑क्षते । ए॒वम॑होरा॒त्रे प्र॒त्यपे॑क्षते । नास्या॑होरा॒त्रे लो॒कमा॑प्नुतः । यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 41 ॥
भट्टभास्कर-टीका
अथो यथेति ॥
अपिच यथा रथस्योत्सङ्गे उपरि तिष्ठन्
अधस्तात् पर्यावर्तमाने पक्षसी पुनःपुनः परिवर्तमाने चक्रे
प्रत्यपेक्षते तद्विषयिणी अपेक्षा प्रत्यपेक्षणम् ।
एवम् अहोरात्रे आदित्य-वशेनाधस्तात् प्रवर्तमाने अयं प्रत्यपेक्षते,
न ह्यस्य लोकं स्थानं आदित्याद् उपरि स्थितं अहोरात्रे प्राप्नुतः,
तस्मात् कालतो ऽनवच्छिन्नत्वाद् अनन्तत्वम् इति ।
योऽग्निमिति । गतम् ॥