विश्वास-प्रस्तुतिः
उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः,
ये ऽव॑रेणादि॒त्यम् ।
अथ॑ है॒ते वरी॑याँसो लो॒काः,
ये परे॑णादि॒त्यम् ।
मूलम्
उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः,
ये ऽव॑रेणादि॒त्यम् ।
अथ॑ है॒ते वरी॑याँसो लो॒काः,
ये परे॑णादि॒त्यम् ।
भट्टभास्कर-टीका
4 उरवो ह वा इत्यादि ॥ द्वये लोकाः उरवो महान्तश्च वरीयांस उरुतराश्च । ‘प्रियस्थिर’ इत्यादिना वरादेशः । तत्रादित्यस्याधस्तादुरव उपरि वरीयांसः ।
विश्वास-प्रस्तुतिः
अन्त॑वन्तँ ह॒ वा ए॒ष क्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
योऽव॑रेणादि॒त्यम् ।
अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑क्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
यः परे॑णादि॒त्यम् ॥ 40 ॥
मूलम्
अन्त॑वन्तँ ह॒ वा ए॒ष क्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
योऽव॑रेणादि॒त्यम् ।
अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑क्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
यः परे॑णादि॒त्यम् ॥ 40 ॥
भट्टभास्कर-टीका
तत्रैष यजमानः कश्चिदन्तवन्तं क्षय्यं क्षपितुं शक्यं लोकं जयति योऽवरेणादित्यं वर्तते, अथ कश्चिद्यजमानः अनन्तं अविनाशं अपारं अपर्यवसानभोगं अक्षय्यं क्षपयितुमशक्यं च लोकं जयति यः परेणादित्यं वर्तते । ‘ततोऽन्यत्रापि दृश्यते’ इति द्वितीया ।
विश्वास-प्रस्तुतिः
अ॒न॒न्तँ ह॒ वा अ॑पा॒रम॑क्ष॒य्यल्ँ लो॒कञ्ज॑यति,
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।
मूलम्
अ॒न॒न्तँ ह॒ वा अ॑पा॒रम॑क्ष॒य्यल्ँ लो॒कञ्ज॑यति,
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
तत्र कोऽनन्तमपारमक्षथ्यं लोकं जयतीति चेत्, ब्रूम इत्याह - अनन्तं हेत्यादि । नाचिकेतयाजी नाचिकेतवेदी च तादृशस्य लोकस्य जेतेति वेदितव्यमिति ॥