विश्वास-प्रस्तुतिः
यो ह॒ वा अ॒ग्नेर् ना॑चिके॒तस्य॒ शरी॑रव्ँ॒ वेद॑,
सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कम् ए॑ति ।
हिर॑ण्यव्ँ॒ वा अ॒ग्नेर् ना॑चिके॒तस्य॒ शरी॑रम् ।
य ए॒वव्ँ वेद॑,
सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कमे॑ति ।
मूलम्
यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रव्ँ॒ वेद॑ । सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कमे॑ति । हिर॑ण्यव्ँ॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रम् । य ए॒वव्ँ वेद॑ । सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कमे॑ति ।
भट्टभास्कर-टीका
हिरण्यं नाचिकेतस्य शरीरं हिरण्यात्मकत्वात्तस्य ॥
विश्वास-प्रस्तुतिः
अथो॒ यथा॑ रु॒क्म+++(=स्वर्णम्)+++ उत्त॑प्तो भा॒य्यात् ॥ 39 ॥,
ए॒वम् ए॒व स तेज॑सा॒ यश॑सा,
अ॒स्मिँश्च॑ लो॒के॑ऽमुष्मिँ॑श्च भाति ।
मूलम्
अथो॒ यथा॑ रु॒क्म उत्त॑प्तो भा॒य्यात् ॥ 39 ॥,
ए॒वमे॒व स तेज॑सा॒ यश॑सा,
अ॒स्मिँश्च॑ लो॒के॑ऽमुष्मिँ॑श्च भाति ।
भट्टभास्कर-टीका
3 अथो यथेति ॥ अपिच उत्तप्तं स्वर्णं यथा भाय्यात् भायात् । छान्दसो द्वितीययकारोपजनः, यकारान्तं वा धात्वन्तरं द्रष्टव्यं, स्वार्थिकण्यन्तो वा भातिर्द्रष्टव्यः । एवमेव स नाचिकेतयाजी तद्बेदी च तेजसा यशसा च अस्मिँश्च लोकेऽमुष्मिँश्च भाति ॥