07 2

विश्वास-प्रस्तुतिः

सँ ह॒ वा अ॑स्मै॒ सकामः॑ पद्यते,
यत्का॑मो॒ यज॑ते,
यो॑ऽग्निन्ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑।

मूलम्

सँ ह॒ वा अ॑स्मै॒ सकामः॑ पद्यते ।
यत्का॑मो॒ यज॑ते ।
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

सँ ह वा इत्यादिर् यष्टुर् विदुषश् च प्रशंसा ॥ यं कामयत इति यत्कामः । ‘शीलिकामि’ इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च ।

विश्वास-प्रस्तुतिः

यो ह॒ वा अ॒ग्नेर् ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठाव्ँ वेद॑,
आ॒यत॑नवान्भवति ।
गच्छ॑ति प्रति॒ष्ठाम् ॥ 38 ॥

हिर॑ण्यव्ँ॒ वा अ॒ग्नेर् ना॑चिके॒तस्या॒त॑नं प्रति॒ष्ठा ।
य ए॒वव्ँ वेद॑,
आ॒यतन॑वान्भवति ।
गच्छ॑ति प्रति॒ष्ठाम् ।

मूलम्

यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठाव्ँ वेद॑ । आ॒यत॑नवान्भवति । गच्छ॑ति प्रति॒ष्ठाम् ॥ 38 ॥

हिर॑ण्यव्ँ॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒त॑नं प्रति॒ष्ठा । य ए॒वव्ँ वेद॑ । आ॒यतन॑वान्भवति । गच्छ॑ति प्रति॒ष्ठाम् ।

भट्टभास्कर-टीका

यो ह वा इत्यादि । आयतनं स्थानं प्रतिष्ठा स्थितिहेतुः।
हिरण्यं तदुभयं, हिरण्येष्टकाभिर् उपधानात् ।
विदित्वा यष्टुः प्रथमं फलं, द्वितीयं वेदितुः ।