07 1

विश्वास-प्रस्तुतिः

अ॒यव्ँ वाव यः पव॑ते +++(वायुः)+++,
सो॑ऽग्निर्ना॑चिके॒तः ।

स यत् प्राङ् पव॑ते,
तद् अ॑स्य॒ शिरः॑ ।

अथ॒ यद् द॑क्षि॒णा,
स दक्षि॑णः प॒क्षः ।

अथ॒ यत्प्र॒त्यक्, तत्पुच्छ॑म् ।

यद् उदङ्ङ्॑, स उत्त॑रः प॒क्षः ॥ 37 ॥

मूलम्

अ॒यव्ँ वाव यः पव॑ते । सो॑ऽग्निर्ना॑चिके॒तः । स यत्प्राङ्पव॑ते । तद॑स्य॒ शिरः॑ । अथ॒ यद्द॑क्षि॒णा । स दक्षि॑णः प॒क्षः । अथ॒ यत्प्र॒त्यक् । तत्पुच्छ॑म् । यदुदङ्ङ्॑ । स उत्त॑रः प॒क्षः ॥ 37 ॥

भट्टभास्कर-टीका

1 अथ नाचिकेतं ब्राह्मणं त्रयोऽनुवाकाः - अयं वावेत्यादि ॥
वायुत्वेन नाचिकेतस् स्तूयते ।
योऽयं पवते पवमानो वायुर् विश्वस्य पावयिता शोधयिता
स एव नाचिकेतोऽग्निः विश्वस्थितिहेतुत्वात् ।
तस्य प्राक्-पवनादीनि शिरः-प्रभृतिस्थानीयानि ।

विश्वास-प्रस्तुतिः

अथ॒ यत् सव्ँ॒ वाति॑,
तद् अ॑स्य +++(कल्पित-शरीरस्य)+++ स॒मञ्च॑नञ्+++(→सङ्कोचः)+++ च प्र॒सार॑णञ् च ।
अथो॑ स॒म्पद् ए॒वास्य॒ सा ।

मूलम्

अथ॒ यत्सव्ँ॒ वाति॑ । तद॑स्य स॒मञ्च॑नञ्च प्र॒सार॑णञ्च । अथो॑ स॒म्पदे॒वास्य॒ सा ।

भट्टभास्कर-टीका

संवानं संगतं वानं, समं वानं वा दिगन्तरविशिष्टं,
तदस्याग्नेश् शरीरस्य समञ्चनं संकोचः प्रसारणं विस्तारश्च ।
शरीरगता या चेष्टा अवयव-संकोच-विस्तारात्मिका
तत्स्थानीयं संवानमिति । अपिचास्याग्नि-शरीरस्य सा संपत् वृद्धिः जीवनवत्त्वं यदन्तर्वानं,
यद्वा - अस्य अग्नेः सा संपत् माहात्म्यं यत्पवमानवत् सर्वगामित्वम् ॥