06 4

दे॒वान्दे॑वाय॒ते य॑ज । अ॒ग्निर्हि वा॒जिनव्ँ॑ वि॒शे । ददा॑ति वि॒श्वच॑र्षणिः । अ॒ग्नी रा॒ये स्वा॒भुव॑म् । स प्री॒तो या॑ति॒ वार्य॑म् । इषँ॑ स्तो॒तृभ्य॒ आ भ॑र । पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्याम् । पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रस्सह॑सा पृ॒ष्टो अ॒ग्निः । स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥ 36 ॥