यो दी॒दाय॒ समि॑द्ध॒स्स्वे दु॑रो॒णे । चि॒त्रभा॑नू॒ रोद॑सी अ॒न्तरु॒र्वी । स्वा॑हुतव्ँ वि॒श्वतः॑ प्र॒त्यञ्च॑म् । मे॒धा॒का॒रव्ँ वि॒दथ॑स्य प्र॒साध॑नम् । अ॒ग्निँ होता॑रं परि॒भूत॑मं म॒तिम् । त्वामर्भ॑स्य ह॒विष॑स्समा॒नमित् । त्वां म॒हो वृ॑णते॒ नरो॒ नान्यन्त्वत् । म॒नु॒ष्वत्त्वा॒ नि धी॑महि । म॒नु॒ष्वत्समि॑धीमहि । अग्ने॑ मनु॒ष्वद॑ङ्गिरः ॥ 3