तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । ता अ॑स्य॒ सूद॑दोहसः । सोमँ॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानाव्ँ॒ विशः॑ । त्रि॒ष्वारो॑च॒ने दि॒वः । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । अग्ने॑ दे॒वाँ इ॒हा व॑ह । ज॒ज्ञा॒नो वृ॒क्तब॑र्हिषे । असि॒ होता॑ न॒ ईड्यः॑ । अग॑न्म म॒हा मन॑सा॒ यवि॑ष्ठम् ॥ 34 ॥