यत्तेऽचि॑तय्ँ॒यदु॑ चि॒तन्ते॑ अग्ने । यत्त॑ ऊ॒नय्ँयदु॒ तेऽति॑रिक्तम् । आ॒दि॒त्यास्तदङ्गि॑रसश्चिन्वन्तु । विश्वे॑ ते दे॒वाश्चिति॒मा पू॑रयन्तु । चि॒तश्चासि॒ सञ्चि॑तश्चास्यग्ने । ए॒तावाँ॒श्चासि॒ भूयाँ॑श्चास्यग्ने । लो॒कं पृ॑णच्छि॒द्रं पृ॑ण । अथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पतिः॑ । अ॒स्मिन् योना॑वसीषदन्न् ॥ 33 ॥