05 3

ऊ॒र्ध्वा दिक् । बृह॒स्पति॑र्दे॒वता॑ । बृह॒स्पतिँ॒ स दि॒शान्दे॒वन्दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । इ॒यन्दिक् । अदि॑तिर्दे॒वता॑ । अदि॑तिँ॒ स दि॒शान्दे॒वीन्दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । पुरु॑षो॒ दिक् । पुरु॑षो मे॒ कामा॒न्त्सम॑र्धयतु ॥ 31 ॥