इन्द्रँ॒ स दि॒शान्दे॒वन्दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । प्र॒तीची॒ दिक् । सोमो॑ दे॒वता॑ । सोमँ॒ स दि॒शान्दे॒वन्दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । उदी॑ची॒ दिक् । मि॒त्रावरु॑णौ दे॒वता॑ । मि॒त्रावरु॑णौ॒ स दि॒शान्दे॒वौ दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति ॥ 30 ॥