05 1

स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वाः । स॒प्तर्ष॑यप्स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्रा॑ अनु वि॒द्वान् । स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ । प्राची॒ दिक् । अ॒ग्निर्दे॒वता॑ । अ॒ग्निँ स दि॒शान्दे॒वन्दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । द॒क्षि॒णा दिक् । इन्द्रो॑ दे॒वता॑ ॥ 29 ॥