म॒रुतो॑ गणानां पतयः । रुद्र॑ पशूनां पते । इन्द्रौ॑जसां पते । बृह॑स्पते ब्रह्मणस्पते । आ रु॒चा रो॑चे॒ऽहँ स्व॒यम् । रु॒चा रु॑रुचे॒ रोच॑मानः । अ॒तीत्या॒दस्व॑राभ॑रे॒ह । तस्मि॒न् योनौ॑ प्रज॒नौ प्रजा॑येय । व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒स्स्व॑स्स्वाहा॑ ॥ 28 ॥