04 1

अन्न॑प॒तेऽन्न॑स्य नो देहि । अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑ । प्रप्र॑ दा॒तार॑न्तारिषः । ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अग्ने॑ पृथिवीपते । सोम॑ वीरुधां पते । त्वष्ट॑स्समिधां पते । विष्ण॑वाशानां पते । मित्र॑ सत्यानां पते । वरु॑ण धर्मणां पते ॥ 27 ॥