03 1

अग्ना॑विष्णू स॒जोष॑सा । इ॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् । राज्ञी॑ वि॒राज्ञी॑ । स॒म्राज्ञी॑ स्व॒राज्ञी॑ । अ॒र्चिश्शो॒चिः । तपो॒ हरो॒ भाः । अ॒ग्निस्सोमो॒ बृह॒स्पतिः॑ । विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते सर्वे॑ स॒ङ्गत्य॑ । इ॒दं मे॒ प्राव॑ता॒ वचः॑ । व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒स्स्व॑स्स्वाहा॑ ॥ 26 ॥