ष॒ड्विँ॒शास्स॑प्तविँ॒शेषु॑ श्रयध्वम् । स॒प्त॒विँ॒शा अ॑ष्टाविँ॒शेषु॑ श्रयध्वम् । अ॒ष्टा॒विँ॒शा ए॑कान्नत्रिँ॒शेषु॑ श्रयध्वम् । ए॒का॒न्न॒त्रिँ॒शास्त्रिँ॒शेषु॑ श्रयध्वम् । त्रिँ॒शा ए॑कत्रिँ॒शेषु॑ श्रयध्वम् । ए॒क॒त्रिँ॒शा द्वा॑त्रिँ॒शेषु॑ श्रयध्वम् । द्वा॒त्रिँ॒शास्त्र॑यस्त्रिँ॒शेषु॑ श्रयध्वम् । देवा॑स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रिँशाः । उत्त॑रे भवत । उत्त॑रवर्त्मान॒ उत्त॑रसत्वानः । यत्का॑म इ॒दञ्जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒स्स्व॑स्स्वाहा॑ ॥ 2