02 3

षो॒ड॒शास्स॑प्तद॒शेषु॑ श्रयध्वम् । स॒प्तद॒शा अ॑ष्टाद॒शेषु॑ श्रयध्वम् । अ॒ष्टा॒द॒शा ए॑कान्नविँ॒शेषु॑ श्रयध्वम् । ए॒का॒न्न॒विँ॒शा विँ॒शेषु॑ श्रयध्वम् । विँ॒शा ए॑कविँ॒शेषु॑ श्रयध्वम् । ए॒क॒विँ॒शा द्वा॑विँ॒शेषु॑ श्रयध्वम् । द्वा॒विँ॒शास्त्र॑योविँ॒शेषु॑ श्रयध्वम् । त्र॒यो॒विँ॒शाश्च॑तुर्विँ॒शेषु॑ श्रयध्वम् । च॒तु॒र्विँ॒शाः प॑ञ्चविँ॒शेषु॑ श्रयध्वम् । प॒ञ्च॒विँ॒शाष्ष॑ड्विँ॒शेषु॑ श्रयध्वम् ॥ 24 ॥