02 2

ष॒ष्ठास्स॑प्त॒मेषु॑ श्रयध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम् । अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम् । न॒व॒मा द॑श॒मेषु॑ श्रयध्वम् । द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम् । ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम् । द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम् । त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम् । च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम् । प॒ञ्च॒द॒शाष्षो॑ड॒शेषु॑ श्रयध्वम् ॥ 23 ॥