02 1

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वँ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वव्ँ वातै॑ररु॒णैर्या॑सि शङ्ग॒यः । त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ । देवा॑ दे॒वेषु॑ श्रयध्वम् । प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम् । द्विती॑यास्तृ॒तीये॑षु श्रयध्वम् । तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम् । च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयध्वम् । प॒ञ्च॒माष्ष॒ष्ठेषु॑ श्रयध्वम् ॥ 22 ॥