01 21

ओजो॑ऽसि॒ सहो॑ऽसि । बल॑मसि॒ भ्राजो॑ऽसि । दे॒वाना॒न्धामा॒मृत॑म् । अम॑र्त्यस्तपो॒जाः । त्वयी॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तन्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 21 ॥