01 18

अ॒हो॒रा॒त्रे स्थो॑ऽर्धमा॒सेषु॑ श्रि॒ते । भू॒तस्य॑ प्रति॒ष्ठे भव्य॑स्य प्रति॒ष्ठे । यु॒वयो॑रि॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्र्यौ॑ विश्व॑स्य जनयि॒त्र्यौ॑ । ते वा॒मुप॑दधे काम॒दुघे॒ अक्षि॑ते । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 18 ॥