अ॒र्ध॒मा॒सास्स्थ॑ मा॒सु श्रि॒ताः । अ॒हो॒रा॒त्रयोः॑ प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ । तान् व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान् । प्रजा॒प॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 17 ॥