नक्ष॑त्राणि स्थ च॒न्द्रम॑सि श्रि॒तानि॑ । सव्ँ॒ व॒त्स॒रस्य॑ प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तॄणि॒ विश्व॑स्य जनयि॒तॄणि॑ । तानि॑ व॒ उप॑दधे काम॒दुघा॒न्यक्षि॑तानि । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रुवा सी॑द ॥ 13 ॥