01 08

अ॒न्तरि॑क्षमस्य॒ग्नौ श्रि॒तम् । वा॒योः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 8 ॥