अ॒ग्निर॑सि पृथि॒व्याँ श्रि॒तः । अ॒न्तरि॑क्षस्य प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तन्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 7 ॥