01 06

पृ॒थि॒व्य॑स्य॒प्सु श्रि॒ता । अग्नेः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री । तान्त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 6 ॥