आप॑स्स्थ समु॒द्रे श्रि॒ताः । पृ॒थि॒व्याः प्र॑ति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्र्यो॑ विश्व॑स्य जनयि॒त्र्यः॑ । ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥