तेजो॑ऽसि॒ तप॑सि श्रि॒तम् । स॒मु॒द्रस्य॑ प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 3 ॥