01 01

लो॒को॑ऽसि स्व॒र्गो॑ऽसि । अ॒न॒न्तो॑ऽस्यपा॒रो॑ऽसि । अक्षि॑तोऽस्यक्ष॒य्यो॑ऽसि । तप॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वय्ँ॑य॒क्षव्ँ विश्व॑म्भू॒तव्ँ विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तन्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 1 ॥