5

भूर्भुव॒स्स्वः॑ । ओजो॒ बल॑म् । ब्रह्म॑ क्ष॒त्रम् । यशो॑ म॒हत् । स॒त्यन्तपो॒ नाम॑ । रू॒पम॒मृत॑म् । चक्षु॒श्श्रोत्र॑म् । मन॒ आयुः॑ । विश्वय्ँ॒यशो॑ म॒हः । स॒मन्तपो॒ हरो॒ भाः । जा॒तवे॑दा॒ यदि॑ वा पाव॒कोऽसि॑ । वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तोऽसि॑ । शं प्र॒जाभ्यो॒ यज॑मानाय लो॒कम् । ऊर्जं॒ पुष्टि॒न्दद॑द॒भ्याव॑वृत्स्व ॥ 10 ॥