3

त्वमे॒व त्वाव्ँ वे॑त्थ॒ यो॑ऽसि॒ सोऽसि॑ । त्वमे॒व त्वाम॑चैषीः । चि॒तश्चासि॒ सञ्चि॑तश्चास्यग्ने । ए॒तावाँ॒श्चासि॒ भूयाँ॑श्चास्यग्ने । यत्ते॑ अग्ने॒ न्यू॑नय्ँ॒यदु॒ तेऽति॑रिक्तम् । आ॒दि॒त्यास्तदङ्गि॑रसश्चिन्वन्तु । विश्वे॑ ते दे॒वाश्चिति॒मापू॑रयन्तु । चि॒तश्चासि॒ सञ्चि॑तश्चास्यग्ने । ए॒तावाँ॒श्चासि॒ भूयाँ॑श्चास्यग्ने । मा ते॑ अग्ने च॒ येन॒ माऽति॑ च॒येनायु॒रावृ॑क्षि । सर्वे॑षा॒ञ्ज्योति॑षा॒ञ्ज्योति॒र्यद॒दावु॒देति॑ । तप॑सो जा॒तमनि॑भृष्ट॒मोजः॑ । तत्ते॒ ज्योति॑रिष्टके । तेन॑ मे तप । तेन॑ मे ज्वल । तेन॑ मे दीदिहि । याव॑द्दे॒वाः । याव॒दसा॑ति॒ सूर्यः॑ । याव॑दु॒तापि॒ ब्रह्म॑ ॥ 6 ॥