11 7

इन्द्र॑स्यै॒व सायु॑ज्यँ सलो॒कता॑माप्नोति॑ । य ए॒वव्ँ वेद॑ । बृह॒स्पते॒र्वा ए॒तानि॑ नाम॒धेया॑नि । बृह॒स्पते॑रे॒व सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वव्ँ वेद॑ । प्र॒जाप॑ते॒र्वा ए॒तानि॑ नाम॒धेया॑नि । प्र॒जाप॑तेरे॒व सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वव्ँ वेद॑ । ब्रह्म॑णो॒ वा ए॒तानि॑ नाम॒धेया॑नि । ब्रह्म॑ण ए॒व सायु॑ज्यँ सलो॒कता॑माप्तोति । य ए॒वव्ँ वेद॑ । स वा ए॒षो॑ऽग्निर॑पक्षपु॒च्छो वा॒युरे॒व । तस्या॒ग्निर्मुख॑म् । अ॒सावा॑दि॒त्यश्शिरः॑ । स यदे॒ते दे॒वते॒ अन्त॑रेण । तत्सर्वँ॑ सीव्यति । तस्मा॑त्सावि॒त्रः ॥ 49 ॥