11 6

याव॑न्तँ ह॒ वै त्र॒य्या वि॒द्यया॑ लो॒कञ्ज॑यति । ताव॑न्तल्ँ लो॒कञ्ज॑यति । य ए॒वव्ँ वेद॑ । अ॒ग्नेर्वा ए॒तानि॑ नाम॒धेया॑नि । अ॒ग्नेरे॒व सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वव्ँ वेद॑ । वा॒योर्वा ए॒तानि॑ नाम॒धेया॑नि । वा॒योरे॒व सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वव्ँ वेद॑ । इन्द्र॑स्य॒ वा ए॒तानि॑ नाम॒धेया॑नि ॥ 48 ॥