11 4

तँ ह॒ त्रीन्गि॒रिरू॑पा॒नवि॑ज्ञातानिव दर्श॒याञ्च॑कार । तेषाँ॒ हैकै॑कस्मान्मु॒ष्टिनाऽऽद॑दे । स हो॑वाच । भर॑द्वा॒जेत्या॒मन्त्र्य॑ । वेदा॒ वा ए॒ते । अ॒न॒न्ता वै वेदाः॑ । ए॒तद्वा ए॒तैस्त्रि॒भिरायु॑र्भि॒रन्व॑वोचथाः । अथ॑ त॒ इत॑र॒दन॑नूक्तमे॒व । एही॒मं वि॑द्धि । अ॒यव्ँ वै स॑र्ववि॒द्येति॑ ॥ 46 ॥