11 3

तस्य॑ है॒वाहो॑रा॒त्राणि॑ । अ॒मुष्मिल्ँ॑ लो॒के शे॑व॒धिन्न ध॑यन्ति । अधी॑तँ है॒व न शे॑व॒धिमनु॒ परै॑ति । भ॒रद्वा॑जो ह त्रि॒भिरायु॑र्भिर्ब्रह्म॒चर्य॑मुवास । तँ ह॒ जीर्णिँ॒ स्थवि॑रँ॒ शया॑नम् । इन्द्र॑ उप॒व्रज्यो॑वाच । भर॑द्वाज । यत्ते॑ चतु॒र्थमायु॑र्द॒द्याम् । किमे॑नेन कुर्या॒ इति॑ । ब्र॒ह्म॒चर्य॑मे॒वैने॑न चरेय॒मिति॑ होवाच ॥ 45 ॥