11 2

स स्वल्ँ लो॒कं प्रति॒ प्रजा॑नाति । ए॒ष उ॑वे॒वैन॒न्तत्सा॑वि॒त्रः । स्व॒र्गल्ँ लो॒कम॒भिव॑हति । अ॒हो॒रा॒त्रैर्वा इ॒दँ स॒युग्भिः॑ क्रियते । इ॒ति॒रा॒त्राया॑दीक्षिषत । इ॒ति॒रा॒त्राय॑ व्र॒तमुपा॑गु॒रिति॑ । तानि॒हाने॑वव्ँ वि॒दुषः॑ । अ॒मुष्मिल्ँ॑ लो॒के शे॑व॒धिन्न ध॑यन्ति । अधी॑तँ है॒व स शेव॒धिमनु॒ परै॑ति । अथ यो है॒वैतम॒ग्निँ सा॑वि॒त्रव्ँ वेद॑ ॥ 44 ॥