11 1

कश्चि॑द्ध॒ वा अ॒स्माल्लो॒कात्प्रेत्य॑ । आ॒त्मानव्ँ॑ वेद । अ॒यम॒हम॒स्मीति॑ । कश्चि॒त्स्वल्ँ लो॒कन्न प्रति॒ प्रजा॑नाति । अ॒ग्निमु॑ग्धो है॒व धू॒मता॑न्तः । स्वल्ँ लो॒कन्न प्रति॒ प्रजा॑नाति । अथ॒ यो है॒वैतम॒ग्निँ सा॑वि॒त्रव्ँ वेद॑ । स ए॒वास्माल्लो॒कात्प्रेत्य॑ । आ॒त्मानव्ँ॑ वेद॑ । अ॒यम॒हम॒स्मीति॑ ॥ 43 ॥