इ॒दानी॑न्त॒दानी॒मिति॑ । ए॒ते वै मु॑हू॒र्ताना॑म्मुहू॒र्ताः । न मु॑हू॒र्ताना॑म्मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति । य ए॒वव्ँ वेद॑ । अथो॒ यथा॑ क्षेत्र॒ज्ञो भू॒त्वाऽनु॑ प्र॒विश्यान्न॒मत्ति॑ । ए॒वमे॒वैतान्क्षे॑त्र॒ज्ञो भू॒त्वाऽनु॑ प्र॒विश्यान्न॑मत्ति । स ए॒तेषा॑मे॒व स॑लो॒कताँ॒ सायु॑ज्यमश्नुते । अप॑ पुनर्मृ॒त्युञ्ज॑यति । य ए॒वव्ँ वेद॑ ॥ 42 ॥