नार्ध॑मा॒सेषु॒ न मासे॒ष्वार्ति॒मार्च्छ॑ति । य ए॒वव्ँ वेद॑ । यो ह॒ वै य॑ज्ञक्र॒तूनाञ्च॑र्तू॒नाञ्च॑ सव्ँ वत्स॒रस्य॑ च नाम॒धेया॑नि॒ वेद॑ । न य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सव्ँ॑ वत्स॒र आर्ति॒मार्च्छ॑ति । अ॒ग्नि॒ष्टोम उ॒क्थ्यो॑ऽग्निर्ऋ॒तुः प्र॒जाप॑तिस्सव्ँ वत्स॒र इति॑ । ए॒ते॑ऽनुवा॒का य॑ज्ञक्र॒तूनाञ्च॑र्तू॒नाञ्च॑ सव्ँ वत्स॒रस्य॑ च नाम॒धेया॑नि । न य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सव्ँ॑ वत्स॒र आर्ति॒मार्च्छ॑ति । य ए॒वव्ँ वेद॑ । यो ह॒ वै मु॑हू॒र्ताना॑म्मुहू॒र्तान् वेद॑ । न मु॑हू॒र्ताना॑म्मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति ॥ 41 ॥