यो ह॒ वै मु॑हू॒र्ताना॑न्नाम॒धेया॑नि॒ वेद॑ । न मु॑हू॒र्तेष्वार्ति॒मार्च्छ॑ति । चि॒त्रः के॒तुर्दा॒ता प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ताऽभि॑शा॒स्ताऽनु॑म॒न्तेति॑ । ए॒ते॑ऽनुवा॒का मु॑हू॒र्ताना॑न्नाम॒धेया॑नि । न मु॑हू॒र्तेष्वार्ति॒मार्च्छ॑ति । य ए॒वव्ँ वेद॑ । यो ह॒ वा अ॑र्धमा॒साना॑ञ्च॒ मासा॑नाञ्च नाम॒धेया॑नि॒ वेद॑ । नार्ध॑मा॒सेषु॒ न मासे॒ष्वार्ति॒मार्च्छ॑ति । प॒वित्रं॑ पवयि॒ष्यन्त्सह॑स्वा॒न्त्सही॑यानरु॒णो॑ऽरु॒णर॑जा॒ इति॑ । ए॒ते॑ऽनुवा॒का अ॑र्धमा॒साना॑ञ्च॒ मासा॑नाञ्च नाम॒धेया॑नि ॥ 40 ॥