10 2

न हा॑स्यै॒ता अ॒ग्नौ मधु॑ कुर्वन्ति । धय॑न्त्यस्येष्टापू॒र्तम् । यो ह॒ वा अ॑होरा॒त्राणा॑न्नाम॒धेया॑नि॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति । सं॒ज्ञानव्ँ॑ वि॒ज्ञान॒न्दर्शा॑ दृ॒ष्टेति॑ । ए॒ताव॑नुवा॒कौ पू॑र्वप॒क्षस्या॑होरा॒त्राणा॑न्नाम॒धेया॑नि । प्रस्तु॑तव्ँ॒ विष्टु॑तँ सु॒ता सु॑न्व॒तीति॑ । ए॒ताव॑नुवा॒काव॑परप॒क्षस्या॑होरा॒त्राणा॑न्नाम॒धेया॑नि । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति । य ए॒वव्ँ वेद॑ ॥ 39 ॥