इ॒यव्ँ वाव स॒रघा॑ । तस्या॑ अ॒ग्निरे॒व सा॑र॒घम्मधु॑ । या ए॒ताः पू॑र्वपक्षापरप॒क्षयो॒ रात्र॑यः । ता म॑धु॒कृतः॑ । यान्यहा॑नि । ते म॑धुवृ॒षाः । स यो ह॒ वा ए॒ता म॑धु॒कृत॑श्च मधुवृ॒षाँश्च॒ वेद॑ । कु॒र्वन्ति॑ हास्यै॒ता अ॒ग्नौ मधु॑ । नास्ये॑ष्टापू॒र्तन्ध॑यन्ति । अथ॒ यो न वेद॑ ॥ 38 ॥