तदे॒तत्प॑रि॒यद्दे॑वच॒क्रम् । आ॒र्द्रं पिन्व॑मानँ स्व॒र्गे लो॒क ए॑ति । वि॒जह॒द्विश्वा॑ भू॒तानि॑ सं॒पश्य॑त् । आ॒र्द्रो ह॒ वै पिन्व॑मानस्स्व॒र्गे लो॒क ए॑ति । वि॒जह॒न्विश्वा॑ भू॒तानि॑ सं॒पश्य॑न् । य ए॒वव्ँ वेद॑ । शू॒षो ह॒ वै वा॑र्ष्णे॒यः । आ॒दि॒त्येन॑ स॒माज॑गाम । तँ हो॑वाच । एहि॑ सावि॒त्रव्ँ वि॑द्धि । अ॒यव्ँ वै स्व॒र्ग्यो॑ऽग्निः पा॑रयि॒ष्णुर॒मृता॒त्सम्भू॑त॒ इति॑ । ए॒ष वाव स सा॑वि॒त्रः । य ए॒ष तप॑ति । एहि॒ माव्ँ वि॑द्धि । इति॑ है॒वैन॒न्तदु॑वाच ॥ 37 ॥